संस्कृत Karak prakaran Online Test Part 1 for all Sanskrit Student. Solve Karak Prakran Online Quiz

 

कारक प्रकरण Online Test Part 1 : आज की तेजी से बदलती दुनिया में, भारत और दुनिया भर की सारी नई अपडेट के बारे में जानकारी प्राप्त करना बहुत जरूरी है। उसी Same साथ संस्कृत का अध्ययन भी बहुत जरूरी है। इसीलिए हम संस्कृत के छात्रों के लिए ऑनलाइन टेस्ट हेतु इस वेबसाइट को लाए हैं । हमारा उद्देश्य आपको दुनिया में होने वाली घटनाओं की जानकारी देना और अपडेट रखना तथा संस्कृत प्रतियोगी परीक्षाओं का अभ्यास करवाना है ।  इसी के साथ हम इस वेबसाइट पर प्रतिदिन करंट अफेयर्स ले के आते हैं। प्रतिदिन के अपडेट्स को देखने व हमारे रोज के क्विज को solve करने के लिए हमारे Group को Join कर लें । 






WhatsApp GroupJoin Now
Telegram GroupJoin Now

कारक प्रकरण Online Test Part 1



Read the Instructions carefully


  • The Exam Contains 25 Objective Type Questions.

  • There will be 25 questions and Every question time alloted 45 Second.

  • 1 Mark(s) will be awarded for each correct answer 

  • The Question Palette displayed on the right side of screen will show the status of each question using one of the following color:

यह टेस्ट देने के बाद आपको आपका स्कोर कार्ड दिख जाएगा कि आपने कितने जवाब सही दिए हैं और कितने गलत








कृपया Test Start करने से पूर्व ऊपर 👆🏻 दिये गये निर्देश को जरूर पढ़े ।
आपके पास प्रत्येक प्रश्न का उत्तर देने के लिए 30 सेकंड होंगे।

Note : इस टेस्ट को तैयार करने में पूर्ण सावधानी बरती गई है। फिर भी अगर कोई गलती मिलती है तो कमेंटबॉक्स में हमे इससे अवगत कराएं। हमारी टीम 24 घण्टे के अंदर उसे ठीक कर देगी।

Time's Up
score:

Online Test Result

Total Questions:

Attempt:

Correct:

Wrong:

Your Score:

Percentage:




कारक प्रकरण  Main Points



वाक्ये विद्यमानक्रियापदेन साकं यस्य पदस्य साक्षात् सम्बन्धः अन्वयः वा स्यात् तत्कारकमित्युच्यते । अतः उच्यते- क्रियान्वयित्वं कारकत्वम्। उदाहरणम् - दशरथस्य पुत्रः रामः वाणेन युद्धक्षेत्रे रावणं हतवान्। अस्मिन् वाक्ये 'हतवान्' इत्यनेन क्रियापदेन साकं कर्तुः 'रामः' इति पदस्य सम्बन्धः वर्तते इति हेतोः अत्र कारकं भवति। कर्ता-कर्म-करण-संप्रदान- अपादान-अधिकरणादिविवक्षायां तत्तत्स्थलेषु तत्तत्कारकं भवति । कर्तृकारकस्य विवक्षायां प्रथमाविभक्तिः, कर्मकारकस्य विवक्षायां द्वितीयाविभक्तिः, करणकारकस्य विवक्षायां तृतीयाविभक्तिः, संप्रदानकारकस्य विवक्षायां चतुर्थीविभक्तिः, अपादानकारकस्य विवक्षायां पञ्चमीविभक्तिः, अधिकरणकारकस्य विवक्षायां सप्तमीविभक्तिः, सम्बन्धस्य आधिक्यात् षष्ठीविभक्तिः च भवति । यद्यपि षष्ठ्या: कारकत्वं नास्ति, अथापि कर्जा सह सम्बन्धत्वात् सम्बन्धे षष्ठी इति प्रयुज्यते । षड्कारकाणां प्रर्दाशनमत्र क्रियते । तद्यथा-


कर्ता-कर्म च करणं सम्प्रदानं तथैव च। 

अपादानाधिकरणे इत्याहु कारकाणि षट्।।


वाक्ये कारकाणां प्राधान्यात् कारकविभक्तिः, समीप- वर्तिपदानां प्राधान्यात् उपपदविभक्तिः च जायते। अतः विभक्तयः द्विधा। कारकविभक्तिः उपपदविभक्तिः च। कारकविभक्तिविषये पूर्व चर्चा प्रवृत्ता । सम्प्रति उपपदविभक्तिविषये विस्तृतविवरणं क्रियते ।


उपपदं नाम - उप अर्थात् समीपे वर्तमानपदं निमित्ती कृत्य प्रवर्तमाना विभक्तिः उपपदविभक्तिः इत्युच्यते । यथा- 'रामेण सह सीता वनं गच्छति' । अत्र 'सह' इत्यव्ययम् उपपदम् । एतत् पदं निमित्तीकृत्य 'रामेण' इत्यत्र तृतीयाविभक्तिः प्रवृत्ता । उपपदविभक्तीनां प्रयोगे याः याः विभक्तयः प्रवर्तन्ते, ताः अत्र विस्तृततया संवर्ण्यन्ते ।


प्रथमाविभक्तिः -


सम्बोधने, एव, इति, नाम, अपि इत्यादीनां योगे प्रथमाविभक्तिः भवति। यथा-


सम्बोधने - हे भगवन् ! अस्मान् त्रयस्व ।


* एव - त्वम् एव शरणं मम।


* इति - श्रीरामः पुरुषोत्तमः इति लोके प्रसिद्धः।


* नाम - पुरा वाल्मीकिः नाम कश्चित् महान् कविः आसीत् ।


* अपि - विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ।



द्वितीयाविभक्तिः




(1) अधोलिखितपदानां योगेन द्वितीयाविभक्तिः भवति ।

यथा-


* सर्वतः - देशं सर्वतः अराजकता दृश्यते ।


* परितः - ग्रामं परितः मार्गाः सन्ति ।


* अभितः - विद्यालयम् अभितः उद्यानम् अस्ति ।


* उभयतः - नदीम् उभयतः वृक्षाः सन्ति ।


* अध्यधि - वृक्षम् अध्यधि शाखाः सन्ति ।


* अधोऽधः - भवनम् अधोऽधः सोपानानि वर्तन्ते ।


* अन्तरा/अन्तरेण- ज्ञानम् अन्तरा/अन्तरेण जीवनं व्यर्थम् ।


* प्रति- पथिकः ग्रामं प्रति गच्छति ।


* धिक् - मूर्खं धिक् ।


* यावत् - नदीं यावत् मार्गः स्वच्छः वर्तते ।


* विना - शिक्षकं विना अनुशासनं नास्ति ।


* ऋते - विद्यालयम् ऋते शिक्षणं नास्ति ।


* निकषा/समया- ग्रामं निकषा/समया नदी अस्ति ।


* हा- हा कष्टं कलियुगे।


* दक्षिणेन - भारतं दक्षिणेन तिरुपतिक्षेत्रं वर्तते ।


* अभि-नि-उपसर्गपूर्वकात् 'विश्' धातु योगेन तथा उप- अनु- अधि- आङ्- उपसर्गपूर्वकात्  'वस्'  धातुयोगेन आधारस्य स्थाने कर्मसंज्ञा भवति ।


(2) अभि + नि छात्रः सन्मार्गम् अभिनिविशते ।


* उप/अनु/अधि/आ- श्रीविष्णुः वैकुण्ठम् उपवसति/ अनुवसति/अधिवसति/आवसति ।


अभूक्त्यर्थे 'उप' उपसर्गपूर्वक 'वस्' धातोः प्रयोगे आधारस्य कर्मसंज्ञा न भवति ।


यथा- 'भिक्षुकः गृहे उपवसति'।


(3) 'अधि' उपसर्गपूर्वकात् शीङ्-स्था-आस्थातुयोगेन आधारस्य कर्मसंज्ञा भवति। यथा-


शिवः कैलाशम् अधिशेते/अध्यास्ते/अधितिष्ठति ।


तृतीयाविभक्तिः


(1) अधोलिखितपदानां योगेन तृतीयाविभक्तिः भवति ।


* सह/साकं/सार्धं/समं -

 गुरुणा सह/साकं/सार्धं समं शिष्यः गच्छति ।


* विना /ऋते/अन्तरा/अन्तरेण/नाना- जलेन विना/ऋते/अन्तरा/अन्तरेण/नाना जीवनं नास्ति ।


(2) इत्थं भूतलक्षणे - अर्थात् यस्य लक्षणं चिह्न वा दृष्ट्वा पदार्थस्य ज्ञानं भवति तस्य लक्षणवाचिशब्दस्य तृतीयाविभक्तिः भवति ।


यथा जटाभिः तापसः। स्यूतेन छात्रः। यज्ञोपवितेन ब्राह्मणः।


(3) येनाङ्गविकारः - अर्थात् शरीरस्य अङ्गविकृतिद्वारा वस्तुनः पदार्थस्य वा अङ्गविकारः ज्ञायते चेत्, तस्य अङ्गवाचकपदस्य तृतीयाविभक्तिः भवति ।


यथा - पादेन खञ्जः, शिरसा खल्वाटः, चक्षुषा काणः, श्रोत्राभ्यां बधिरः इत्यादीनि ।


(4) प्रकृति-प्राय-गोत्रप्रभृतिशब्दानां योगेन तृतीया- विभक्तिः भवति । यथा प्रकृत्या गवां पयः मधुरम् । समुद्रजलं प्रकृत्या लवणाक्तम् । गोत्रेण भारद्वाजः। अद्य प्रायेण वृष्टिः भवेत् ।


चतुर्थीविभक्तिः


(1) अधोलिखितानां शब्दानां योगेन चतुर्थीविभक्तिः भवति ।


* नमः - गुरवे नमः ।


* स्वस्ति - प्रजाभ्यः स्वस्ति ।


* स्वाहा - अग्नये स्वाहा।


* स्वधा- पितृभ्यः स्वधा ।


* अलम् - मल्लः मल्लाय अलम् ।


* वषट् - इन्द्राय वषट्।


(2) तुमुन्प्रत्यययोगेन धातोः अर्थ प्रकाशयितुं यस्य भाववाचकसंज्ञापदस्य प्रयोगः क्रियते, तत्र चतुर्थीविभक्तिः भवति । यथा - स्नानाय (स्नातुम्) गङ्गानदीं गच्छति । दानाय (दातुम्) धनम् अर्जय।


(3) कुध्-दृह-ईर्ष्या-असूयधातूनां तथा तत्समानार्थक- धातूनां च प्रयोगेण यस्योपरि कोपः क्रियते तत्र चतुर्थीविभक्ति प्रयुज्यते ।


यथा - अध्यापकः छात्राय क्रुध्यति ।

          कर्णः अर्जुनाय ईर्ष्याति ।

          मूर्खः पण्डितेभ्यः दुह्यन्ति ।

          खलः सज्जनेभ्यः असूयति ।


(4) रुच्, दाधातोः योगेन चतुर्थीविभक्तिः भवति ।


यथा- गणेशाय मोदकं रोचते। धनिकः दरिद्राय धनं ददाति ।


पञ्चमीविभक्तिः


(1) अधोलिखितपदानां योगेन पञ्चमीविभक्तिः भवति । यथा- अन्यः/भिन्नः इतरः/पृथक् -


रामात् अन्यः/भिन्नः/इतरः/पृथक् कः रावणं हन्तुं समर्थः ।


* विना/ऋते - परिश्रमात् विना/ऋते सफलता नास्ति ।


* बहिः - गृहात् बहिः उद्यानं वर्तते ।


*आरात् - ग्रामात् आरात् विद्यालयः अस्ति।


* परम्/अनन्तरम् - स्वाध्यायात् परम्/अनन्तरं क्रीडतु । आरभ्य/प्रभृति - बालकः बाल्याद् आरभ्य/प्रभृति चतुरः अस्ति ।


(2) भीत्रार्थानां भयहेतुः - भयार्थक-त्राणार्थकधातूनां प्रयोगे यस्मात् वस्तुनः व्यक्तेः वा भयम् उत्पद्यते, तस्य वस्तुनः व्यक्तेर्वा पञ्चमीविभक्तिः भवति । यथा -


खलात् कस्य भयं न जायते। व्याघ्रात् सर्वे बिभ्यति ।


(3) यतो जुगुप्सा तदर्थानां विरामार्थानां यतो विरतिः जुगुप्सा, घृणा, विराम, प्रमाद, तथा तत्समानार्थक शब्दानां प्रयोगेण पञ्चमी विभक्तिः भवति । यथा-


साधुः पापात् जुगुप्सते। बालः पठनात् विरमति । आफलोदयात् कर्मणः न विरतिः। धर्मात् न प्रमदितव्यम् ।


(4) वारणार्थानामीप्सितः - अभिलषितस्य पदार्थस्य व्यक्तेः सकाशात् वा यस्य वारणं क्रियते तस्य वस्तुनः, पदार्थस्य, व्यक्तेः वा पञ्चमीविभक्तिः यथा- धान्येभ्यः गां वारयति। पिता पुत्रं चलचित्रदर्शनात् वारयति ।


(5) पराजेरसोढः - परा उपसर्ग पूर्वक-जि धातोः प्रयोगेण अपादानसंज्ञा भवति । यथा-


अध्ययनात् पराजयते। अन्तद्धौ येनादर्शनमिच्छति । यस्य दर्शनात् आत्मानं गोपयितुं प्रयासः क्रियते तस्य अपादानसंज्ञा । यथा- पितुः निर्लीयते गोपालः।


(6) जनिकर्तुः प्रकृतिः जन् धातोः प्रयोगस्थले उत्पत्तेः आविर्भावस्य मूलकारणे अपादानसंज्ञा भवति । यथा-


कामात् क्रोधोऽभिजायते । 

क्षीरात् दधि सञ्जायते । 

हिमालयात् गङ्गा निर्गतास्ति । 

वधूः श्वसुरात् जिह्वेति । 

अध्यापकः आसनात् प्रेक्षते । 

अयोध्यायाः त्रिशतक्रोशाः मथुरा। 

धनात् ज्ञानं विशिष्यते । 

गोविन्दात् गोपालः पटुतरः । 

मर्यादा - आमुक्तेः संसारः । 

अभिविधिः

                     आमूलात् सर्वं वृत्तान्तं कथय । 

                     आकैलासात् गन्तुकामोऽहम् । 

                     परि विष्णोः संसारः। 

                     अपविष्णोः संसारः ।

    परि वनात् वर्षति मेघः ।

    तिलेभ्यः प्रतियच्छति माषान् ।

    तस्मात् कारणात् सः अनुत्तीर्णः।


     अन्य, आरात, इतर, ऋते, अञ्च्छ्रत्ययान्तेभ्यः, प्रत्यच्, उदीच्, प्राच्, अवाच् शब्दयोगे, अच् प्रत्ययान्तेभ्यः, दक्षिणा, उत्तरा शब्दयोगे, आहि प्रत्ययान्तशब्देभ्यः, दक्षिणाहि, उत्तराहि इत्यादिशब्दानां योगेन
पञ्चमी विभक्तिः।

 यथा-

          रामात् अन्यः/इतरः/भिन्नः को वा रावणं निहन्तुं शक्नोति ।

         आरात् (पाश्र्वे) वनात् नदी प्रवहति ।

         ज्ञानात् ऋते सुखं नास्ति । 

         नगरात् प्राक्/ प्रत्यक् पर्वतः वर्तते । 

        भाद्रः पूर्वात् पूर्वः श्रावणः। 

         नगरात् दक्षिणा नदी विद्यते।

         ग्रामात् दक्षिणाहि मन्दिरमस्ति ।


तथैव - प्रभृति, बहिः शब्दयोगे पञ्चमी।


 बाल्याद् आरभ्य/ प्रभृति हरिः सर्वदा स्मरणीयः ।


 नगरात् बहिः विद्यालयः अस्ति।


पृथक्, विना, नाना, इत्यादि पदानां योगेन पञ्चमी, तृतीया, द्वितीया विभक्तिः च भवति।


परिश्रमात्/ परिश्रमेण / परिश्रमं विना विद्या न लभ्यते।


नगरात् / नगरस्य दूरं/ दूरेण/दूरात्/दूरे पर्वतः वर्तते ।


ग्रामस्य/ग्रामात् अन्तिकं / अन्तिकेन/अन्तिकात्/ अन्तिके नदी प्रवहति।


षष्ठीविभक्तिः


राज्ञः पुरुषः आगच्छति। (सम्बन्धे) शेषे 


अध्ययनस्य हेतोः अहं गुरुकुले तिष्ठामि ।


कस्य हेतोः भवान् न पठति ।


ग्रामस्य दक्षिणतः उत्तरतः शस्यक्षेत्राणि सन्ति।


गृहस्य उपरि/अग्रे/ पुरः/पश्चात् वा नारिकेलवृक्षः वर्त्तते ।


बालकः ईश्वरस्य स्मरति ।


रामस्य दयमानः गोविन्दः पुस्तकं ददाति ।


गात्राणाम् अनीशोऽहम्।


प्रभवति पुत्राणां पिता ।


कालस्य कुटिला गतिः।


शिशूनां क्रन्दनम्।


साफल्यस्य अवाप्तिः ।


राक्षसानां बधः ।


शतस्य दीव्यति ।


कायः कस्य न वल्लभः ।


प्राणेभ्योऽपि प्रिया सीता रामस्यासीन्न संशयः।


तव मम च समुद्रपल्वलयोरिवान्तरम् ।


अग्निः काष्ठानां न तृप्यति ।


अपां हि तृप्ताय न वारिधारा।


स्वादुः सुगन्धिः स्वदते तुषारा।



सप्तमी विभक्तिः


कटे आस्ते ।


मोक्षे इच्छा अस्ति ।


तिलेषु तैलम् ।


अधीती व्याकरणे।


मातरि साधुः कृष्णः, मातुलं चासाधुः।


चर्मणि द्विपिनं हन्ति ।


दन्तयोर्हन्ति कुञ्जरम् ।


सूर्ये उदिते कमलं प्रस्फुटति ।


वसन्ते समुपस्थिते पिकाः कूजन्ति ।


गोषु दुह्यमानासु गतः, दुग्धासु आगतः।


अद्य भुक्तः रामः त्र्यहे त्र्यहाद् वा भोक्ता।


अयं क्रोशे क्रोशाद् वा लक्ष्यस्य विध्येत् ।


कार्ये व्यापृतः लग्नः तत्परः ।


शास्त्रे निपुणः/ दक्षः/प्रवीणः/पटुः ।


शिशौ अस्मिन् स्निह्यति मे मनः।


न तापसकन्यायां शकुन्तलायां मे अभिलाषः ।


देवे चन्द्रगुप्ते दृढमनुरक्ताः प्रकृतयः ।


नैतत् त्वयि युज्यते ।


सम्भाव्यते त्रैलोकस्यापि प्रभुत्वं त्वयि युज्यते ।


शुकनासनाम्नि मन्त्रिणि राज्यभारमारोप्य स यौवनसुखमनुबभूव । 


योग्यसचिवे न्यस्तः समस्तभारः ।


मृगेषु शरान् मुमुक्षोः ।


न खलु न खलु वाणः सन्निपात्योऽयमस्मिन् ।


गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ।


नापितः क्षेपणकान् शिरसि अताडयत् ।




Thanks for Trying your Karak Prakran Test. We hope, try more tests on our allgovernmentexam.in website. 
If have you any complain or any type of suggestion, please send us using our contact form. 


Join our group for more new Test .



WhatsApp GroupJoin Now
Telegram GroupJoin Now



All Government Exam

I'm Amit Kumar AKS, a Sanskrit Student and web developer with a passion for promoting education through digital platforms. With expertise in competitive exam preparation content. My aims to provide students with quality study materials that help them succeed in various government exams.

Post a Comment

Previous Post Next Post